श्री गंगा स्तोत्रम् | Ganga Stotram :->यह गंगा मैया का स्त्रोत्रम मनुष्य का भक्ति वा बढ़ाने वाला है और उसे भवसागर से पार लगाने वाला है
श्री गंगा स्तोत्रम् | Ganga Stotram
गांगं वारि मनोहारि मुरारिचरणच्युतम् *
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम्*
माँ गंगा स्तोत्रम्॥
देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे *
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले*१॥
भागीरथि सुखदायिनि मातस्तव
जलमहिमा निगमे ख्यातः *
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम्* २॥
हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे *
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम्* ३॥
तव जलममलं येन निपीतं,
परमपदं खलु तेन गृहीतम् *
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः* ४॥
पतितोद्धारिणि जाह्नवि गङ्गे
खण्डितगिरिवरमण्डितभङ्गे *
भीष्मजननि हे मुनिवरकन्ये,
पतितनिवारिणि त्रिभुवनधन्ये* ५॥
कल्पलतामिव फलदां लोके,
प्रणमति यस्त्वां न पतति शोके *
पारावारविहारिणि गङ्गे
विमुखयुवतिकृततरलापाङ्गे* ६॥
तव चेन्मातः स्रोतःस्नातः
पुनरपि जठरे सोऽपि न जातः *
नरकनिवारिणि जाह्नवि गङ्गे
कलुषविनाशिनि महिमोत्तुङ्गे* ७॥
पुनरसदङ्गे पुण्यतरङ्गे
जय जय जाह्नवि करुणापाङ्गे *
इन्द्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये* ८॥
रोगं शोकं तापं पापं
हर मे भगवति कुमतिकलापम्*
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे॥ ९॥
अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये *
तव तटनिकटे यस्य निवासः
खलु वैकुण्ठे तस्य निवासः* १०॥
वरमिह नीरे कमठो मीनः
किं वा तीरे शरटः क्षीणः *
अथवा श्वपचो मलिनो दीनस्तव
न हि दूरे नृपतिकुलीनः॥ ११॥
भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये *
गङ्गास्तवमिमममलं नित्यं
पठति नरो यः स जयति सत्यम्* १२॥
येषां हृदये गङ्गाभक्तिस्तेषां
भवति सदा सुखमुक्तिः *
मधुराकान्तापज्झटिकाभिः
परमानन्दकलितललिताभिः* १३॥
गङ्गास्तोत्रमिदं भवसारं
वाञ्छितफलदं विमलं सारम् *
शङ्करसेवकशङ्कररचितं पठति
सुखी स्तव इति च समाप्तः* १४॥
देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे *
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले*
श्री शङ्कराचार्य कृतं