Skip to content
Home » श्री महालक्ष्मी स्तोत्रम् | Mahalakshmi Stotram

श्री महालक्ष्मी स्तोत्रम् | Mahalakshmi Stotram

  • Stotram

श्री महालक्ष्मी स्तोत्रम् | Mahalakshmi Stotram From Vishnupuran :->यह जो माता लक्ष्मी भगवती देवी कष्ट उत्तम है यह विष्णु पुराण में से उठाया गया है यह माता रानी को शंकर ने एक सरल माध्यम  है

श्री महालक्ष्मी स्तोत्रम् | Mahalakshmi Stotram

श्रीगणेशाय नमः*
श्रीपराशर उवाच
सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः*
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः*

इन्द्र उवाच
नमस्ये सर्वलोकानां जननीमब्जसम्भवाम्*
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम्

पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम्
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम्

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी*
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने*
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी

आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव च*
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम्

का त्वन्या त्वमृते देवि सर्वयज्ञमयं वपुः*
अध्यास्ते देवदेवस्य योगचिन्त्यं गदाभृतः

त्वया देवि परित्यक्तं सकलं भुवनत्रयम्*
विनष्टप्रायमभवत्त्वयेदानीं समेधितम्

दाराः पुत्रास्तथाऽऽगारं सुहृद्धान्यधनादिकम्*
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम्

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम्*
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम्१०

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता*
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम्११

मनःकोशस्तथा गोष्ठं मा गृहं मा परिच्छदम्*
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि१२

मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम्*
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये१३

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः*
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले१४

त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः*
कुलैश्वर्यैश्च पूज्यन्ते पुरुषा निर्गुणा अपि१५

सश्लाघ्यः सगुणी धन्यः स कुलीनः स बुद्धिमान्*
स शूरः सचविक्रान्तो यस्त्वया देवि वीक्षितः१६

सद्योवैगुण्यमायान्ति शीलाद्याः सकला गुणाः*
पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे१७

न ते वर्णयितुं शक्तागुणाञ्जिह्वाऽपि वेधसः*
प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन१८

श्रीपराशर उवाच
एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम्*
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज१९

श्रीरुवाच
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरेः*
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता२०

इन्द्र उवाच
वरदा यदिमेदेवि वरार्हो यदिवाऽप्यहम्*
त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः२१

स्तोत्रेण यस्तवैतेन त्वां स्तोष्यत्यब्धिसम्भवे*
स त्वया न परित्याज्यो द्वितीयोऽस्तुवरो मम२२

श्रीरुवाच
त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव*
दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्ट्या२३

यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः*
स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्गमुखी२४

श्रीपाराशर उवाच
एवं वरं ददौ देवी देवराजाय वै पुरा*
मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता२५

भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः*
देवदानवयत्नेन प्रसूताऽमृतमन्थने२६

एवं यदा जगत्स्वामी देवराजो जनार्दनः*
अवतारः करोत्येषा तदा श्रीस्तत्सहायिनी२७

पुनश्चपद्मा सम्भूता यदाऽदित्योऽभवद्धरिः*
यदा च भार्गवो रामस्तदाभूद्धरणीत्वियम्२८

राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि*
अन्येषु चावतारेषु विष्णोरेखाऽनपायिनी२९

देवत्वे देवदेहेयं मानुषत्वे च मानुषी*
विष्णोर्देहानुरुपां वै करोत्येषाऽऽत्मनस्तनुम्३०

यश्चैतशृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः*
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम्३१

पठ्यते येषु चैवर्षे गृहेषु श्रीस्तवं मुने*
अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन३२

एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि*
क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती३३

इति सकलविभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः*
अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः३४

इति श्रीविष्णुपुराणे महालक्ष्मी स्तोत्रं सम्पूर्णम्

Must read

Leave a Reply

Your email address will not be published. Required fields are marked *