Skip to content
Home » श्री शिवरक्षा स्तोत्रम् | Shiv Raksha Stotram

श्री शिवरक्षा स्तोत्रम् | Shiv Raksha Stotram

  • Stotram

श्री शिवरक्षा स्तोत्रम् | Shiv Raksha Stotram :->यह सुंदर stotram भोलेनाथ के भक्तों को अता प्रिय आने वाले stotram में से एक है |

श्री शिवरक्षा स्तोत्रम् | Shiv Raksha Stotram

। ॐ नमः शिवाय
अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः,
श्रीसदाशिवो देवता, अनुष्टुप् छन्दः,
श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः
चरितं देवदेवस्य महादेवस्य पावनम्
अपारं परमोदारं चतुर्वर्गस्य साधनम् १
गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः २
गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः
नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ३
घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः
जिह्‍वां वागीश्‍वरः पातु कन्धरां शिति-कन्धरः ४
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्‍व-धुरन्धरः
भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ५
हृदयं शङ्करः पातु जठरं गिरिजापतिः
नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ६
सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः
ऊरू महेश्‍वरः पातु जानुनी जगदीश्‍वरः ७
जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ८
एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत्
स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात् ९
ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये
दूरादाशु पलायन्ते शिव-नामाभिरक्षणात् १०
अभयङ्कर-नामेदं कवचं पार्वतीपतेः
भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम् ११
इमां नारायणः स्‍वप्ने शिवरक्षां यथादिशत्
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् १२
इति श्रीयाज्ञवल्क्य-प्रोक्तं शिवरक्षा-स्तोत्रं सम्पूर्णम्

नीचे दिए गए लिंक पर क्लिक करके देखें

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!