Skip to content
Home » द्वादश ज्योतिर्लिङ्ग स्तोत्रम् | Dwadash Jyotirlinga Stotram

द्वादश ज्योतिर्लिङ्ग स्तोत्रम् | Dwadash Jyotirlinga Stotram

  • Panchang

द्वादश ज्योतिर्लिङ्ग स्तोत्रम् | Dwadash Jyotirlinga Stotram :->🙏हिमालये तू केदारं तं नमामि🙏 सुनिए मंत्रमुग्ध कर देने वाला || द्वादश ज्योतिर्लिङ्ग स्तोत्रम् || स्वर – परम शैव पं. मृत्युंजय हिरेमठ जी केदारनाथ धाम

द्वादश ज्योतिर्लिङ्ग स्तोत्रम् | Dwadash Jyotirlinga Stotram

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये *

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् *2

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् *3

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे *4

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि *5

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये *6

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे *7

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे *8

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि *9

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि *10

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये *11

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये *12

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च *13

इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् *

Dwadash Jyotirlinga Stotram pdf

Read Also- यह भी जानें

  1. भगवान शिव जी के 108 नाम | Shiva ji ke 108 naam
  2. शिव रुद्राभिषेक मंत्र | Shiv Rudrabhishek Mantra
  3. Shiv stuti lyrics Marathi
  4. शिव शंकर चले कैलाश | Shiv Shankar Chale Kailash Lyrics
  5. श्री शिवमङ्गलाष्टकम् | Shiv Mangalashtakam

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!