श्री वामन स्तोत्र | vaman stotram :->यह बामन स्तोत्रम भक्ति भावना को बढ़ाने वाला है अथवा भारत की सभी मनोकामना को पूर्ण करने वाला
श्री वामन स्तोत्र | vaman stotram
नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन*
सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे * १ *
नमस्ते बहुरूपाय अरूपाय नमो नमः*
सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने * २ *
नमस्ते लोकनाथाय परमज्ञानरूपिणे*
सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने * ३ *
यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः*
तमादिपुरुषं देवं नमामीष्टार्थसिद्धये * ४ *
यं न जानन्ति श्रुतयो यं न जायन्ति सूरयः*
तं नमामि जगद्धेतुं मायिनं तममायिनम् * ५ *
यस्य़ावलोकनं चित्रं मायोपद्रववारणं*
जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् * ६ *
यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः*
करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् * ७ *
यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः*
अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् * ८ *
यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसुनिष्ठितं*
नमामि यज्ञफलदं यज्ञकर्मप्रभोदकम् * ९ *
अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु*
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् * १० *
ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः*
न जानन्ति परं भावं तं वन्दे सर्वनायकम् * ११ *
हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः*
प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् * १२ *
यन्मुखाद्ब्राह्मणो जातो बाहुभ्य़ः क्षत्रियोऽजनि*
तथैव ऊरुतो वैश्याः पद्भ्यां शूद्रो अजायत * १३ *
मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः*
मुखादिन्द्रश्चाऽग्निश्च प्राणाद्वायुरजायत * १४ *
त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः*
त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः * १५ *
देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः*
गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः * १६ *
त्वमेव जगतामीशो यन्नामास्ति परात्परः*
त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे * १७ *
इति स्तुत्वा देवधात्री देवं नत्वा पुनः पुनः*
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी * १८ *
अनुग्राह्यास्मि देवेश हरे सर्वादिकारण*
अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् * १९ *
अन्तर्यामिन् जगद्रूप सर्वभूत परेश्वर*
तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो * २० *
तथापि तव वक्ष्यामि यन्मे मनसि वर्तते*
वृथापुत्रास्मि देवेश रक्षोभिः परिपीडिता * २१ *
एतन्न हन्तुमिच्छामि मत्सुता दितिजा यतः*
तानहत्वा श्रियं देहि मत्सुतानामुवाच सा * २२ *
इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः*
उवाच हर्षयन्साध्वीं कृपयाऽभि परिप्लुतः * २३ *
श्री भगवानुवाच*
प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव*
यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी * २४ *
त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः*
तेषां पुत्रो धनं सम्पन्न हीयन्ते कदाचन * २५ *
अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभं*
|| इति श्रीपद्मपुराणे श्री वामन स्तोत्रं ||
Read More
- सप्तश्लोकी दुर्गा स्तोत्रम् | Saptashloki Durga Stotram
- महिषासुरमर्दिनि स्तोत्रम् | Mahishasura Mardini Stotram lyrics
- सिद्धकुञ्जिकास्तोत्रम् | Siddha Kunjika Stotram
- अष्टलक्ष्मी स्तोत्रम | Ashtalakshmi stotram
- माँ दुर्गा देव्यापराध क्षमा | Maa Durga Kshama Stotram
- Durga Puja Pushpanjali – लिरिक्स, pDF ,वीडियो