Skip to content
Home » तुलसी विवाह मंगलाष्टक | Tulsi Mangalashtak

तुलसी विवाह मंगलाष्टक | Tulsi Mangalashtak

  • Stotram

तुलसी विवाह मंगलाष्टक | Tulsi Mangalashtak :->mangalastak। mangalacharn। मंगलाष्टक। मंगलाष्टक स्तुति। मंगलाष्टक स्तोत्रम्। मंगलाचरण।

तुलसी विवाह मंगलाष्टक | Tulsi Mangalashtak

ॐ श्री मत्पंकजविष्टरो हरिहरौ वायुमर्हेन्द्रोऽनलः
चन्द्रो भास्कर वित्तपाल वरुण प्रताधिपादिग्रहाः
प्रद्यम्नो नलकूबरौ सुरगजः चिन्तामणिः कौस्तुभः
स्वामी शक्तिधरश्च लांगलधरः कुवर्न्तु वो मंगलम् 1

गंगा गोमतिगोपतिगर्णपतिः गोविन्दगोवधर्नौ
गीता गोमयगोरजौ गिरिसुता गंगाधरो गौतमः
गायत्री गरुडो गदाधरगया गम्भीरगोदावरी
गन्धवर्ग्रहगोपगोकुलधराः कुवर्न्तु वो मंगलम् 2

नेत्राणां त्रितयं महत्पशुपतेः अग्नेस्तु पादत्रयं
तत्तद्विष्णुपदत्रयं त्रिभुवने ख्यातं च रामत्रयम्
गंगावाहपथत्रयं सुविमलं वेदत्रयं ब्राह्मणम्
संध्यानां त्रितयं द्विजैरभिमतं कुवर्न्तु वो मंगलम् 3

बाल्मीकिः सनकः सनन्दनमुनिः व्यासोवसिष्ठो भृगुः
जाबालिजर्मदग्निरत्रिजनकौ गर्गोऽ गिरा गौतमः
मान्धाता भरतो नृपश्च सगरो धन्यो दिलीपो नलः
पुण्यो धमर्सुतो ययातिनहुषौ कुवर्न्तु वो मंगलम् 4

गौरी श्रीकुलदेवता च सुभगा कद्रूसुपणार्शिवाः
सावित्री च सरस्वती च सुरभिः सत्यव्रतारुन्धती
स्वाहा जाम्बवती च रुक्मभगिनी दुःस्वप्नविध्वंसिनी
वेला चाम्बुनिधेः समीनमकरा कुवर्न्तु वो मंगलम् 5

गंगा सिन्धु सरस्वती च यमुना गोदावरी नमर्दा
कावेरी सरयू महेन्द्रतनया चमर्ण्वती वेदिका
शिप्रा वेत्रवती महासुरनदी ख्याता च या गण्डकी
पूर्णाः पुण्यजलैः समुद्रसहिताः कुवर्न्तु वो मंगलम् 6

लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वन्तरिश्चन्द्रमा
गावः कामदुघाः सुरेश्वरगजो रम्भादिदेवांगनाः
अश्वः सप्तमुखः सुधा हरिधनुः शंखो विषं चाम्बुधे
रतनानीति चतुदर्श प्रतिदिनं कुवर्न्तु वो मंगलम् 7

ब्रह्मा वेदपतिः शिवः पशुपतिः सूयोर् ग्रहाणां पतिः
शुक्रो देवपतिनर्लो नरपतिः स्कन्दश्च सेनापतिः
विष्णुयर्ज्ञपतियर्मः पितृपतिः तारापतिश्चन्द्रमा
इत्येते पतयस्सुपणर्सहिताः कुवर्न्तु वो मंगलम् 8

इति मंगलाष्टक समाप्त

Read also

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!