Skip to content
Home » श्री शिव बिल्वाष्टकम | Shree Bilvastakam lyrics 

श्री शिव बिल्वाष्टकम | Shree Bilvastakam lyrics 

  • Stotram

श्री शिव बिल्वाष्टकम | Shree Bilvastakam lyrics :->Bilvastakam (बिल्वाष्टकम् ) is a stotra used in worship of a shiv lingam by Bael(bilva) leaves(बिल्वपत्र​).

 श्री शिव बिल्वाष्टकम | Shree Bilvastakam lyrics 

त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं ।
त्रिजन्म पापसंहारम् ऎकबिल्वं शिवार्पणं ॥1

अखण्ड बिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥2

शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।
सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ 3

दन्तिकोटि सहस्राणी वाजपेय शतानि च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ 4

लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ 5

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवर्पणम् ॥ 6

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयाघमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥7

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ 8

Read Also- यह भी जानें

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!