Skip to content
Home » दक्षिणामूर्ति स्तोत्रम|Dakshinamurthy Stotram

दक्षिणामूर्ति स्तोत्रम|Dakshinamurthy Stotram

  • Stotram
दक्षिणामूर्ति_स्तोत्रम_Dakshinamurthy_Stotram

दक्षिणामूर्ति स्तोत्रम|Dakshinamurthy Stotram :->मैं युवा गुरु श्री दक्षिणामृति को नमन करता हूं, जो मौन के माध्यम से ब्रह्म का ज्ञान सिखाते हैं, जो शिष्यों से घिरे हुए हैं, जो स्वयं वेदों के विद्वान और विद्वान हैं। (मैं श्री दक्षिणामृति की पूजा करता हूं), जो शिक्षकों के शिक्षक हैं, जिनका हाथ ज्ञान (सिन-मुद्रा) में है, जिनकी प्रकृति परिपूर्णता है, जो स्वयं में प्रकट होते हैं, और जो हमेशा चुप रहते हैं।

दक्षिणामूर्ति स्तोत्रम|Dakshinamurthy Stotram

ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं
वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः |
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं
स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ‖

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् |
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेद दक्षं नमामि ‖

चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा |
गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ‖

निधये सर्वविद्यानां भिषजे भवरोगिणाम् |
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ‖

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये |
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ‖

चिदोघनाय महेशाय वटमूलनिवासिने |
सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ‖

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने |
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ‖

विश्वं दर्पणदृश्यमाननगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥

बीजस्यान्तरिवाङ्कुरो जगदिदं प्रानिर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३॥

नानाच्छिद्र घटोदरस्थितमहा दीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्ति विलास कल्पितमहा व्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५॥

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८॥

भूरम्भां स्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १०॥

Read Also- यह भी जानें

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!