Skip to content
Home » तुलसी स्तोत्रम्‌ | Shri Tulsi Stotram

तुलसी स्तोत्रम्‌ | Shri Tulsi Stotram

तुलसी स्तोत्रम्‌ | Shri Tulsi Stotram :-> jai tulsi mata

तुलसी स्तोत्रम्‌ | Shri Tulsi Stotram

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे *
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः 1

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे *
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके 2

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा *
कीर्तितापि स्मृता वापि पवित्रयति मानवम् 3

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् *
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् 4

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् *
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः 5

नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ *
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे 6

तुलस्या नापरं किञ्चिद् दैवतं जगतीतले *
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः 7

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ *
आरोपयति सर्वाणि श्रेयांसि वरमस्तके8

तुलस्यां सकला देवा वसन्ति सततं यतः *
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् 10

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे *
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके 11

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता *
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः 12

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी *
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया 13

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला *
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः14

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् *
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया 15

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे *
नमस्ते नारदनुते नारायणमनःप्रिये16


** श्रीपुण्डरीककृतं तुलसीस्तोत्रं सम्पूर्णम् **

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!