Skip to content
Home » Rin Mochan Mangal Stotram(ऋण मोचक मङ्गल स्तोत्रम्)

Rin Mochan Mangal Stotram(ऋण मोचक मङ्गल स्तोत्रम्)

  • Stotram

ऋण मोचक मङ्गल स्तोत्रम् | Rin Mochan Mangal Stotram :->mantra for removing debts, loans, borrowings, obligations आभार , उधार, कर्ज, ऋण मुक्ति हेतु ऋणमोचन मंगल स्तोत्र

ऋण मोचक मङ्गल स्तोत्रम् | Rin Mochan Mangal Stotram

श्री मङ्गलाय नमः *
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः *
स्थिरासनो महाकयः सर्वकर्मविरोधकः 1

लोहितो लोहिताक्षश्च सामगानां कृपाकरः *
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः2

अङ्गारको यमश्चैव सर्वरोगापहारकः *
व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः3

एतानि कुजनामनि नित्यं यः श्रद्धया पठेत् *
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् 4

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् *
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् 5

स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः *
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् 6

अङ्गारक महाभाग भगवन्भक्तवत्सल *
त्वां नमामि ममाशेषमृणमाशु विनाशय 7

ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः *
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा 8

अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः *
तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात् 9

विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा *
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः 10

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः *
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः 11

एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् *
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा 12

  • इति श्री ऋणमोचक मङ्गलस्तोत्रम् सम्पूर्णम् *


Read also

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!